मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ९

संहिता

ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।
उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥

पदपाठः

ऋ॒तऽवा॑नम् । ऋ॒त॒ऽय॒वः॒ । य॒ज्ञस्य॑ । साध॑नम् । गि॒रा ।
उषः॑ । ए॒न॒म् । जु॒जु॒षुः॒ । नम॑सः । प॒दे ॥

सायणभाष्यम्

ऋतायवः यज्ञकामाः हे यजमानाः ऋतावानं यज्ञवन्तं यज्ञस्यसाधनं साधनभूतमेनमग्निं नमसोहविषः पदे स्थाने यज्ञांगेवा गिरा स्तुतिलक्षणया वाचा उपोजुजुषुः उपासेवधवम् । तिङांतिङोभवन्तीति मध्यमपुरुषस्य प्रथमपुरुषादेशः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०