मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १३

संहिता

यद्वा उ॑ वि॒श्पति॑ः शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।
विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥

पदपाठः

यत् । वै । ऊं॒ इति॑ । वि॒श्पतिः॑ । शि॒तः । सुऽप्री॑तः । मनु॑षः । वि॒शि ।
विश्वा॑ । इत् । अ॒ग्निः । प्रति॑ । रक्षां॑सि । से॒ध॒ति॒ ॥

सायणभाष्यम्

विश्पतिः विशां पालयिता शितः हविर्भिस्तीक्ष्णीकृतः सोग्णिः सुप्रीतः सुष्ठु प्रीतःसन् मनुषोमनुष्यस्य विशि निवेशने गृहे यद्वै यदा खलु वर्तते तदा- नीमग्निः विश्वेत् विश्वान्येव तस्यबाधकानि रक्षांसि प्रतिषेधति हिनस्ति । षिधुगत्यां भौवादिकः उ प्रसिद्धौ ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११