मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १४

संहिता

श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।
नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥

पदपाठः

श्रु॒ष्टी । अ॒ग्ने॒ । नव॑स्य । मे॒ । स्तोम॑स्य । वी॒र॒ । वि॒श्प॒ते॒ ।
नि । मा॒यिनः॑ । तपु॑षा । र॒क्षसः॑ । द॒ह॒ ॥

सायणभाष्यम्

हे वीर शत्रूणां विनाशयितः वीर्यवन् विश्पते विशां पालयितः हे अग्ने नवस्य इदानीं क्रियमाणत्वान्नूतनं मे मदीयं स्तोमस्य स्तोत्रशस्त्रादिकं श्रुष्टी श्रुत्वा मायिनोमायाविनोरक्षसः कर्मविघ्नकारिणोराक्षसान् तपुषा तापकेन तेजसा निदह नितरां भस्मीकुरु । श्रुष्टी स्नात्व्यादयश्चेति निपातितःवका- रलोपश्छान्दसः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११