मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १५

संहिता

न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्य॑ः ।
यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥

पदपाठः

न । तस्य॑ । मा॒यया॑ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः॑ ।
यः । अ॒ग्नये॑ । द॒दाश॑ । ह॒व्यदा॑तिऽभिः ॥

सायणभाष्यम्

मर्त्योमनुष्योरिपुः शत्रुः चनेति निपातसमुदायोप्यर्थे माययाचन माययापि तस्य जनस्य नेशीत ईश्वरोनभवति । योजनः हव्यदातिभिः हविषां दा- तृभिः ऋत्विग्भिरग्नये ददाश हवींषि प्रयच्छति । तस्य रिपर्नास्तीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११