मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १७

संहिता

उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।
आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसम् ॥

पदपाठः

उ॒शना॑ । का॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒सा॒द॒य॒त् ।
आ॒ऽय॒जिम् । त्वा॒ । मन॑वे । जा॒तऽवे॑दसम् ॥

सायणभाष्यम्

हे अग्ने काव्यः कविपुत्रउशना एतन्नामकऋषिः मनवे राज्ञे तस्य गृहइत्यर्थः आयजिं आभिमुख्येन यष्टारं जातवेदसं जातप्रज्ञं त्वा त्वां पुनस्त्वाशब्द- आदरार्थः त्वामेव होतारं होमनिष्पादकं न्यसादयत् नितरामुपावेशयत् ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२