मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १८

संहिता

विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।
श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥

पदपाठः

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अक्र॑त ।
श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः॑ । भु॒वः॒ ॥

सायणभाष्यम्

हे अग्ने विश्वे सर्वे देवासोदेवाः सजोषसः संगताःसंतः अस्माकं हवींष्यानयतीति विचार्य हिरवधारणे त्वामेव दूतं हविषां वोढारं दूतमक्रताकार्षुः । ततः देव द्योतमान हे अग्ने प्रथमः देवानांमुख्यभूतस्त्वं श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रं यज्ञियोदेवानां हविर्दातृत्वेन यज्ञार्होभुवोभूयाः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२