मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १९

संहिता

इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्य॑ः ।
पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसम् ॥

पदपाठः

इ॒मम् । घ॒ । वी॒रः । अ॒मृत॑म् । दू॒तम् । कृ॒ण्वी॒त॒ । मर्त्यः॑ ।
पा॒व॒कम् । कृ॒ष्णऽव॑र्तनिम् । विऽहा॑यसम् ॥

सायणभाष्यम्

अनया यजमानश्चाग्निं देवानां दूतमकार्षीदित्याह वीरःकर्मणिसमर्थःमर्त्योमनुष्योयजमानःअमृतं मरणधर्मरहितं पावकं पापानांशॊधकं कृष्णवर्तनिं वर्तनिर्मार्गं कृष्णमार्गं विहायसं विहायाइति महन्नाम गुणैस्तेजोधिकत्वेनवा महान्तमिमं घ इममेवाग्निं दूतं देवानां वोदृत्वेन द्तं कृण्वीत अकार्षीत् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२