मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २०

संहिता

तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषम् ।
वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्य॑म् ॥

पदपाठः

तम् । हु॒वे॒म॒ । य॒तऽस्रु॑चः । सु॒ऽभास॑म् । शु॒क्रऽशो॑चिषम् ।
वि॒शाम् । अ॒ग्निम् । अ॒जर॑म् । प्र॒त्नम् । ईड्य॑म् ॥

सायणभाष्यम्

यतस्रुचः गृहीतस्रुचः यद्वा तत्तत्स्थानेषु नियमितस्रुचोवयं सुभासं शोभनदीप्तिं शुक्रशोचिषं दीपनशीलतेजस्कं विशां स्वामिनं यद्वा वि- शामीड्यमित्यन्वयः मनुष्याणां स्तोतव्यं अजरं जरारहितं प्रत्नं पुरातनं तं तथाविधमग्निं हुवेम स्तोत्रस्त्रादिभिराह्वयामः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२