मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २१

संहिता

यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।
भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥

पदपाठः

यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् ।
भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥

सायणभाष्यम्

योमर्तोमनष्यः हव्यदातिभिर्हविर्दातृभिऋत्विग्भिरस्मै अग्नये आहुतिमविधत् विदधाते समनुष्यः भूरि बहु पोषं धनादिभिः पोषणं वीरवत् पुत्रपौ- त्रादुत्यक्तं यशः कीर्तिच धत्ते धारयति तस्मै धनादीनि प्रयच्छतीत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३