मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २२

संहिता

प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ।
प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥

पदपाठः

प्र॒थ॒मम् । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ।
प्रति॑ । स्रुक् । ए॒ति॒ । नम॑सा । ह॒विष्म॑ती ॥

सायणभाष्यम्

प्रथमं देवानां प्रधानभूतं जातवेदसं जातप्रज्ञं पूर्व्यं पुरातनं एतादृशमग्निं यज्ञेषु अग्निष्टोमादियज्ञेषु हविष्मती सोमादिहविर्युक्तास्रुक् नमसा स्तोत्रेण नमस्कारेणवा सह प्रत्येति अग्निं प्रतिगच्छति ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३