मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २३

संहिता

आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।
मंहि॑ष्ठाभिर्म॒तिभि॑ः शु॒क्रशो॑चिषे ॥

पदपाठः

आभिः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ । ज्येष्ठा॑भिः । व्य॒श्व॒ऽवत् ।
मंहि॑ष्ठाभिः । म॒तिऽभिः॑ । शु॒क्रऽशो॑चिषे ॥

सायणभाष्यम्

विश्वमनोनामकावयं ज्येष्ठाभिः प्रशस्यतमाभिः मंहिष्ठाभिः पूज्यतमाभिः आभिः मतिभिः सूक्तरूपाभिः स्तुतिभिः सुक्रशोचिषे ज्वालातेजसेऽग्नये विधेम परिचरेम वयमिह व्यश्ववत् यथाव्यश्वोस्माकं पिताग्निं स्तुतिभिः पर्यचरत् तद्वद्वयमपि परिचरेम ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३