मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २४

संहिता

नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।
ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥

पदपाठः

नू॒नम् । अ॒र्च॒ । विऽहा॑यसे । स्तोमे॑भिः । स्थू॒र॒यू॒प॒ऽवत् ।
ऋषे॑ । वै॒य॒श्व॒ । दम्या॑य । अ॒ग्नये॑ ॥

सायणभाष्यम्

वैयश्व व्यश्वस्यपुत्र हे विश्वमनोनामकऋषे विहायसे महते दम्याय दमे गृहे अरणीभिर्मथ्यमानत्वेन भवाय यद्वा यजमानगृहाणां बाधपरिहारेण् हितायाग्रये नूनं संप्रति स्तोमेभिः त्रिवृत्पच्चदशादिलक्षणैः स्तोमैः अर्च स्तुहि । तत्रदृष्टान्तः-स्थूरयूपवत् यथा स्थूरयूपोनामर्षिरेनमग्निमानर्च तद्वद- र्चेत्यर्थः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३