मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २६

संहिता

म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।
अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥

पदपाठः

म॒हः । विश्वा॑न् । अ॒भि । स॒तः । अ॒भि । ह॒व्यानि॑ । मानु॑षा ।
अग्ने॑ । नि । स॒त्सि॒ । नम॑सा । अधि॑ । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हे अग्ने महः कर्मकर्तृत्वेन महतः विश्वान् सर्वान् सतः स्तोत्रकरणार्थं वर्तमानान् स्तोतृनभि अभितः त्वं नमसा स्तुत्यतया बर्हिष्यधि निषत्सि निषी- द । तथा मानुषा मानुषाणां मनुष्यसंबंधीनि हव्यानि हवींष्यभि अभितः तानि स्वीकर्तुं निषीद ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४