मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २८

संहिता

त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।
सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥

पदपाठः

त्वम् । व॒रो॒ इति॑ । सु॒ऽषाम्णे॑ । अग्ने॑ । जना॑य । चो॒द॒य॒ ।
सदा॑ । व॒सो॒ इति॑ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व॑ते ॥

सायणभाष्यम्

वरो सर्वैर्वरणीय वसो शत्रूणां वासयितः यविष्ठ पुनःपुनर्जायमानत्वेन युवतम हे अग्ने त्वं सुषाम्णे सुसाम्ने सुषामादित्वात् षत्वं त्वत्प्रसादात् शोभ- नसामवते शश्वते बहवे जनाय प्रादुर्भूताय स्तोतृणां सदा सर्वदा रातिं धनादिकं चोदय प्रेरय ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४