मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २९

संहिता

त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।
म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥

पदपाठः

त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ ।
म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥

सायणभाष्यम्

हे अग्ने त्वं हिरवधारणे त्वमेव सुप्रतूः स्तोतृणां धनादिकं सुष्ठु प्रदातासि प्रयच्छसीत्यर्थः । अतएव गोमतीः पश्चादियुक्तानि इषोन्नानि महोमहतो- रायोधनस्य मध्ये सातिं देयं धनं च नः स्तोतृणामस्माकं अपावृधि अपावृणु प्रयच्छेत्यर्थः ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४