मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १

संहिता

सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥

पदपाठः

सखा॑यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।
स्तु॒षे । ऊं॒ इति॑ । सु । वः॒ । नृऽत॑माय । धृ॒ष्णवे॑ ॥

सायणभाष्यम्

सखायः मित्रभूता हे ऋत्विजः वज्रिणे वज्रहस्तायेन्द्राय ब्रह्म कर्तव्यमेतत्सूक्तरूपं स्तोत्रमाशिषामहि वयमाशास्मः शासु अनुशिष्टौ लुङि च्लेरङादे- शःइत्वषत्वे व्यत्ययेनात्मनेपदम् । तत्र वः सर्वेषामेव युष्माकं अर्थाय नृतमाय सर्वेषां नेतृतमाय यद्वा संग्रामेषु आयुधादीनां नेतृतमाय धृष्णवे शत्रू- णां धर्षणशीलाय तस्माइन्द्राय अहमेव सु सुष्ठु स्तुषे स्तौमि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५