मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २

संहिता

शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।
म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥

पदपाठः

शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा ।
म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं शवसा बलेन श्रुतः प्रसिद्धोसि भवसि हिप्रसिद्धौ । तदेवाह वृत्रहत्येन वृत्रासुरहननेन वृत्रहा वृत्रहन्तेति प्रसिद्धोभवसि । शूर शौर्यवन् हे इन्द्र मघोनोमघवतोधनवतः पुरुषान्मघैः त्वदीयैर्धनैरति अतिक्रम्य दाशसि स्तोतृभ्योस्मभ्यं प्रयच्छसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५