स न॒ः स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।
नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् ।
नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥
हे इन्द्र सतथाविधस्त्वं स्तवानः अस्माभिः स्तूयमानः सन् चित्रश्रवस्तमं अतिशयेन नानाविधान्नोपेतं रयिं पुत्रं धनं वा नोस्मभ्यमाभर आसंपादय देहित्यर्थः । हरिवः हरी अश्वौ तद्वन् हे इन्द्र यस्त्वं निरेकेचित् निर्गमनएव वसुः शत्रूणां वासयिताभवसि तवायुधनिर्गमनादेव शत्रवःपलायन्ते खलु । किच्च त्वं ददिर्धनानां दाता भवसि ॥ ३ ॥