मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ५

संहिता

न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ ।
न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥

पदपाठः

न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ ।
न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥

सायणभाष्यम्

हे हरिवोश्ववन्निद्र आमुरः संग्रामेआभिमुख्येन कर्तारः प्रतियोद्धारो गविष्टिषु पणिभिरपहृतानामंगिरसांगवामन्वेषणेषु ते तव सव्यं हस्तं नवरंते न निवारयन्ति तेषामायुधादिभिर्न निवार्यतइत्यर्थः । तथा दक्षिणंह्स्तंच न निवारयन्ति । किंच परिबाधः परितोबाधमानाः वृत्रादयोसुराश्च तव स- व्यदक्षिणहस्तौ ननिवारयन्ति संग्रामेषु त्वया सर्वे शत्रवः छिन्नहस्ताः सर्वतोगच्छन्तु त्वंतु तैरबाधितोवर्तसइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५