आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः ।
आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥
आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ ।
आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥
हे अद्रिवः वज्रवन्निन्द्र गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः त्वा त्वां आऋणोमि प्राप्नोमि । ऋणु गतौ तनादिः । तत्रदृष्टान्तः-गोभिरिव यथागोपालोगो- भिर्व्रजं गोष्ठं गच्छति तद्वत्त्वां स्तुतिभिः प्राप्नोमीत्यर्थः । ततस्त्वं जरितुः स्तोतुर्मम कामं धनादिविषयं आपृण आपूरय तथा मदीयं मनोमानसं ध- नादिभिः प्रदानेनापूरय ॥ ६ ॥