मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ८

संहिता

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।
वसो॑ः स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥

पदपाठः

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।
वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्यहन्तः शूर बलवन्पुरुहूत पुरुभिर्बहुभिराह्वातव्येन्द्र नव्यसः नवीयसः ईयसुनईकालोपश्छांदसः नवतरं स्पार्हस्य स्पृहणीयं राधसः राधसाध संसिद्धौ शर्मादेः संसाधकं ते तव त्वदीयं अस्य वसोः क्रियाग्रहणं कर्तव्यमिति वसोः सम्प्रदानसंज्ञा चतुर्थ्यर्थे बहुलंछंदसीति वसोः षष्ठी त्वदीयमिदं परिदृश्यमानं धनं वयं विद्याम लभेमहि । विदॢलाभे आदादिकः छांदसोविकरणस्यलुक् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६