मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ९

संहिता

इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।
अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥

पदपाठः

इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ ।
अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥

सायणभाष्यम्

हे नृतो सर्वस्यांतर्यामितया नर्तयितरिन्द्र ते त्वदीयं शवोबलं यथा अपरीतमस्ति शत्रुभिरपरिगतमव्याप्तंभवति हिप्रसिद्धौ । तथा हे पुरुहूत पुरुभि- र्बहुभिराहूतेन्द्र दाशुषे हविर्दत्तवते यजमानाय रातिः धनादिदानममृक्ता शत्रुभिरहिंसितं भवति त्वत्तोलब्धं यजमानस्यधनं शत्रवोनहिंसन्ति । यथा त्वदीयबलस्य रक्षकः एवं तस्य धनस्यापि रक्षकइत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६