मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १०

संहिता

आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।
दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥

पदपाठः

आ । वृ॒ष॒स्व॒ । म॒हा॒ऽम॒ह॒ । म॒हे । नृ॒ऽत॒म॒ । राध॑से ।
दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒ऽव॒न् । म॒घत्त॑ये ॥

सायणभाष्यम्

हे महामह अतिशयेन सर्वैः पूजनीय नृतम नेतृतमेन्द्र महे महते राधसे शत्रुधनानां संसाधकाय बलार्थं आवृषस्व स्वोदरमासिच्च सोमं पिबेत्यर्थः । हे मघवन् धनवन्निन्द्र सोमपानेन मत्तःसन् दृह्ळश्चित् दृढानि परैः अबाधितान्यपि शत्रुपुराणि मघत्तये मघानां धनानां लाभाय दृह्य जिघांस विदार- येत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६