मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ११

संहिता

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॑ः ॥

पदपाठः

नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।
मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हे अद्रिवः वज्रवन्निन्द्र त्वं धनवान् दाताचेत्यपरिज्ञाय नोस्मदीयानि आशसः आशंसनान्यभिलाषाः त्वत् त्वत्तोन्यत्र देवादौ नूचित् पुरा जग्मुः अग- च्छन् तत्र फलं नालभन्त । इदानीं त्वं धनवान् त्वं दानशीलइत्यस्माभिर्ज्ञातं अतएव हे मघवन् धनवन् इन्द्र तव त्वदीयं तच्छत्रुपुरविदारणलब्धं ध- नं ऊतिभिः तद्रक्षणैः नोस्मभ्यं शग्धि देहि शग्धीति दानकर्मा शक्रोतेर्लोटि छान्दसोविकरणस्यलुक् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७