मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १२

संहिता

न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।
रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥

पदपाठः

न॒हि । अ॒ङ्ग । नृ॒तो॒ इति॑ । त्वत् । अ॒न्यम् । वि॒न्दामि॑ । राध॑से ।
रा॒ये । द्यु॒म्नाय॑ । शव॑से । च॒ । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे नृतो नर्तयितः गिर्वणः गीर्भिः स्तुतिभिः वननीय संभजनीयेन्द्र राधसे बलसंसाधकायान्नाय राये धनाय द्युम्नाय द्योतमानाय यशसे शवसे वर्ध- काय बलायच त्वत्त्वतोन्यं नहि विन्दामि न लभे । अंग प्रसिद्धौ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७