मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १३

संहिता

एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।
प्र राध॑सा चोदयाते महित्व॒ना ॥

पदपाठः

आ । इन्दु॑म् । इन्द्रा॑य । सि॒ञ्च॒त॒ । पिबा॑ति । सो॒म्यम् । मधु॑ ।
प्र । राध॑सा । चो॒द॒या॒ते॒ । म॒हि॒ऽत्व॒ना ॥

सायणभाष्यम्

हे ऋत्विजः इन्द्रुं स्यंदनशीलं सोमं इंद्राय इन्द्रार्थमासिच्चत आश्रयणद्रव्येण सेचनं कुरुत अभिषुतेत्यर्थः । ततः सोम्यं सोममयं मधु मधुकरं सोमरसं पिबाति पिबतु पीत्वाच सइन्द्रः महित्वना स्वमहत्त्वेनैव राधसा अन्नेन सह धनादिकं स्तोतृभ्यः प्रचोदयाते प्रकर्षेण चोदयति । यद्वा यजमानःमहि- त्वना इन्द्राय प्रदीयमानत्वादस्य महत्वं महत्वयुक्तेन राधसान्नेन सह स्तोतृन्प्रचोदयति इन्द्राय हविर्दत्तेति स्तोतृन् प्रेरयतीत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७