मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १४

संहिता

उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।
नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥

पदपाठः

उपो॒ इति॑ । हरी॑णाम् । पति॑म् । दक्ष॑म् । पृ॒ञ्चन्त॑म् । अ॒ब्र॒व॒म् ।
नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य॑ ॥

सायणभाष्यम्

हरीणां हरितवर्णानामश्वानां पतिं पालयितारं दक्षं वर्धकं स्वबलं पृंचन्तं पृचीसंपर्के मरुत्सु योजयन्तम् यद्वा शत्रुषु स्वबलमायुधादिभिः संपर्चयन्त- मेतादृशमिन्द्रं त्वामुपो अब्रवं विश्वमना अहं स्तोत्रं करवाणि । अश्व्यस्य व्यश्वोनामर्षिः अश्वशब्देनोच्यते तस्य पुत्रस्य स्तुवतः स्तोत्रं कुर्वतोमम संबन्धिनीं त्वद्विषयां स्तुतिं नूनं सम्प्रति श्रुधि शृणु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७