मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १५

संहिता

न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥

पदपाठः

न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् ।
नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥

सायणभाष्यम्

हे इन्द्र त्वत् त्वत्तः पुरा पूर्वं वीरतरः सामर्थ्यवान्कश्चिन्नहि जज्ञे न जातः खलु । अंग प्रसिद्धौ । त्वमेव सामर्थ्यवान् जातइत्यर्थः । किच्च त्वत्तोपि रा- या धनेन समर्थोनकिर्नकश्चिदस्ति । तथा एवथा शत्रुपुराणि संग्रामं वा प्रतिगमनेन त्वत्तोधिकोनजातः । यद्वा एवथा अवरक्षणादिषु अकारस्य ए- कारश्छान्दसः औणादिकोथप्रत्ययः शरणागतानां स्तोतृणां चावनेन त्वत्तोधिकोनास्ति । किंच भन्दना भंदतिः स्तुतिकर्मा स्तुत्याच त्वदधिकोनजा- तः धनवान् रक्षकः स्तुत्यश्च त्वत्तोन्योनजज्ञइति ॥ १५ ॥ एदृमध्वइति तृचः पूर्वोक्तेब्राह्मणाच्छंसिशस्त्रे वैकल्पिकोनुरूपः सूत्रितंच-एदुमध्वोमदिन्तरमेतोन्विन्द्रंस्तवामसखायइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७