मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १७

संहिता

इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥

पदपाठः

इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् ।
उत् । आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥

सायणभाष्यम्

हे हरीणां स्थातः अश्वानामधिष्ठातरिन्द्र ते त्वदीयां पूर्व्यस्तुतिं पूर्वैरृषिभिः कृतां स्तुतिमुपलक्षणं इदानींतनैः क्रियमाणामपिस्तुतिं नकिर्नकश्चित् शवसा बलेन उदानंश व्याप्नोति । अशूव्याप्तौ लिटि अश्नोतेश्चेतिनुट् छान्दसआगमः कश्चिन्नातिक्रामतीत्यर्थः । किंच भन्दना सर्वैः प्रार्थनीयत्वात् पूजनीयेन धनेन स्तुत्यावा त्वदीयां स्तुतिं नकश्चिदतिक्रामति त्वत्तोबलवान्धनी स्तुत्योवान्योनास्तीत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८