मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् १९

संहिता

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ः स्तोम्यं॒ नर॑म् ।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥

पदपाठः

एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।
कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥

सायणभाष्यम्

हे सखायः समानख्याना मित्रभूतावा हे ऋत्विजः नु क्षिप्रं एतो आगच्छतैव । किमर्थं तदाह स्तोम्यं स्तोमार्हं नरं सर्वस्यनेतारं तमिन्द्रं स्तवाम स्तो- त्रं करवाम । यइन्द्रः एकइत् एकोसहायएवसन् विश्वाः सर्वाः कृष्टीः शत्रुसेनाः अभ्यस्ति अभिभवति तं स्तवामेतिशेषः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८