मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २१

संहिता

यस्यामि॑तानि वी॒र्या॒३॒॑ न राध॒ः पर्ये॑तवे ।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥

पदपाठः

यस्य॑ । अमि॑तानि । वी॒र्या॑ । न । राधः॑ । परि॑ऽएतवे ।
ज्योतिः॑ । न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥

सायणभाष्यम्

यस्येन्द्रस्य वीर्या वीर्याणि वृत्रहननादिलक्षणानि सामर्थ्यानि अमितानि अस्य इयन्ति सामर्थ्यानि नान्यानीति परिमितानि नभवन्ति । यद्वा मीत्र् हिंसायां छान्दसोह्रस्वः शत्रुभिरहिंसितानि भवन्ति । तथा यस्येन्द्रस्य राधोधनं न पर्येतवे शत्रुभिः परिगंतुं प्राप्तुं शक्यं न भवति । अतएवास्यदक्षि- णा धनं दानमभ्यस्ति विश्वं सर्वं स्तोतृजनं अभिभवति । तत्रदृष्टान्तः- ज्योतिर्न ज्योतिषामयनत्वात् ज्योतिरन्तरिक्षं यथान्तरिक्षं सर्वलोकं पिधाय तिष्ठति तद्वत् स्तोतृजनं धनदानेन पिधत्तइत्यर्थः । यद्वा येन दत्तं धनं सर्वं शत्रुजनमभिभवति येनदत्तं धनमादायासतः शत्रूनभिभवतीत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९