स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।
अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥
स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् ।
अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥
हे विश्वमनः अनूर्मिं ऊर्मिर्हिंसाकर्मा कैश्विदप्यहिंस्यं अथवा शत्रुभिरगंतव्यं अतएव वाजिनं बलवन्तं यमं स्तोतृभिः सुनियतमेतादृशमिन्द्रं स्तुहि । स्तोत्रेदृष्टान्तः-व्यश्ववत् यथा व्यश्वोविश्वमनसः पिता इन्द्रमस्तौत् तद्वत् स्तुहीत्यर्थः । स्तुतश्चेत् अर्यः स्वामीन्द्रः दाशुषे हविर्दत्तवते यजमानाय मंह- मानं पूज्यमानं गयं धनं यद्वा देवानां पूजायै गयं गृहम् । गृहमस्तिचेत् देवाहविर्भिःपूज्यन्ते तादृशं गृहं वितरति तस्मात् त्वं धनगृहलाभाय स्तुहीत्य- र्थः ॥ २२ ॥