मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २३

संहिता

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।
सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥

पदपाठः

ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ।
सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥

सायणभाष्यम्

हे वैयश्व व्यश्वस्यपुत्र विश्वमनः चर्षणीनां मनुष्याणां देहेस्थितानां नवानां प्राणानां दशमं दशसंख्यापूरकम् । तत्रमन्त्रः-नववै पुरुषेप्राणामनुष्येषुर्वत- मानाइन्द्रस्तेषां दशधाभवतींद्रस्यात्मानं दशधाचरन्तमिति । एतादृशं अतएव नवं स्तुत्यं सुविद्वांसं अंतर्यामित्वात् सुष्ठु सर्वं जानन्तं चर्कृत्यं भूयोभू- यः कार्येषु सर्वैर्नमस्कर्तव्यमेवंविधमिन्द्रं एव नूनमिदानीमुपस्तुहि समीपेस्तुहि ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९