मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २५

संहिता

तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।
द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥

पदपाठः

तत् । इ॒न्द्र॒ । अवः॑ । आ । भ॒र॒ । येन॑ । दं॒सि॒ष्ठ॒ । कृत्व॑ने ।
द्वि॒ता । कुत्सा॑य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥

सायणभाष्यम्

हे इन्द्र तदवस्तद्रक्षणमस्मभ्यमाभर हे दंसिष्ठ अत्यन्तं दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र कृत्वने कर्मकुर्वते यजमानाय तदर्थं येन पालनमकृथाः तद्रक्षणमाभरेति समन्वयः । किच्च कुत्साय कुत्सनामकाय राजर्षये द्विता द्विधा प्रकारेण शिश्नथः त्वं शत्रूनवधीः तस्मै द्वैधं पालनमकार्षीरित्यर्थः तद्रक्षणमप्यस्मभ्यं निचोदय नितरामत्यर्थं प्रेरय । यद्वा कृत्वनइति सामान्येनोक्त्वा निःशेषेण तदेवाह कुत्सायेत्यादि । शेषं पूर्ववत् ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९