मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २७

संहिता

य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।
वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥

पदपाठः

यः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु ।
वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥

सायणभाष्यम्

पूर्वोर्धर्चः परोक्षकृतः यइन्द्रऋक्षात् ऋन्मनुष्यान् क्षणोति क्षणोतेरौणादिकोडप्रत्ययः तस्माद्रक्षसोजातादंहसः पापरूपादुपद्रवान्मुचत् मुच्चति रा- क्षसएनं नबाधते किंपुनस्तंहन्तीत्यर्थः । अपिच यइन्द्रः सप्तसिंधुषु गंगाद्यासु नदीषु यद्वा सप्त सर्पणशीलासु सिंधुषु तत्कूलेष्वित्यर्थः गंगायांघोषइ- तिवत् । तेषु वर्तमानानां स्तोतृणां आर्यात् धनादिकं प्रेरयेत् ऋगतिप्रापणयोः आशीर्लिङि गुणोर्तिसंयोगाद्योरिति गुणः बहुलंछन्दसीति लिङ्यप्या- डागमः । अथप्रत्यक्षः हे तुविनृम्ण बहुधनेन्द्र दासस्योपक्षपयितुरसुरस्य वधः हननसाधनमायुधं नीनमः नमय ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०