मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २८

संहिता

यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।
व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥

पदपाठः

यथा॑ । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । स॒निऽभ्यः॑ । आ । अव॑हः । र॒यिम् ।
विऽअ॑श्वेभ्यः । सु॒ऽभ॒गे॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥

सायणभाष्यम्

अनेनतृचेन वरोर्दानंस्तूयते-हे वरो वरुनामकराजन् सुषाम्णे सुसाम्ने सुषामाख्यं राजानं स्वपितरमुद्दिश्य तस्योत्तमलोकप्राप्त्यर्थं सनिभ्यो भिक्षमा- णेभ्यो आ कोशात् आहृत्यरयिं धनं यथा पुरा अवहः प्रापितवानसि अतएवमिदानीं व्यश्वेभ्यः व्यश्वपुत्रेभ्योस्मभ्यं धनमावह । वाजिनीवतीतिपद- लिंगादियमुषस्या अयंतृचोप्युषस्यइति शौनकेनोक्तम्-यथा वरोसुषाम्णइत्युत्तमस्त्वौषसस्तृचइति । हे सुभगे शोभनधनयुक्ते वाजिनीवति अन्नवति मतुबनुवादार्थः । यद्वा वाजोवाजनं गमनमस्यास्तीति वाजिनी अन्नं तद्वति हे उषः त्वं चास्मभ्यं धनं प्रयच्छ वरोर्बहुधनदानात्तस्य दानस्तुतिः । यद्वा विश्वमनाऋषिः वरुं संबोध्याह हे सुभगे शोभनधने वाजिनीवति अन्नवति हे उषःयथा त्वं सुषाम्णे सुषामनाम्ने मम पित्रे धनं दत्वा तेनैव सुषाम्णा सनिभ्योयाचमानेभ्यः धनं यथा प्रापितवत्यसि तेन यथा दानमकारयः एवं मह्यमपि धनं दत्वा व्यश्वेभ्यः पूजायां बहुवचनं व्यश्वपुत्राय विश्वमनसे धनं प्रापयेति मयापि दानंकरोषि । हेवरो उषसमेवंवदेत्यृषिराह ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०