मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २९

संहिता

आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।
स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥

पदपाठः

आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ ।
स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥

सायणभाष्यम्

अनया धनं ऋषिरादत्तवानित्याह नार्यस्य नरहितोनर्यः तस्यापत्यंनार्यःतस्मात् संबन्धमात्रे तस्येदमित्यण् तस्य सोमिनःसोमवतोयजमानस्य यद्वा व्यश्वानां विशेषणं तादृशस्य वरोर्दक्षिणादानं सोमवतोव्यश्वान् व्यश्वपुत्रानस्मानैतु आगच्छतु । किंच स्थूरं स्थूलं शतवत्सहस्रवत् शतसहस्रधनयुक्तं राधोन्नं चास्मानागच्छतु ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०