मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ३०

संहिता

यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।
ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥

पदपाठः

यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ ।
ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥

सायणभाष्यम्

इदानीमुषसं संबोध्याभिधीयते हे कुहयाकृते सवरुः कुह कुत्रतिष्ठतीत्येतदिच्छयाभिलक्षणप्रवृत्तैर्जिज्ञासुभिः पुरस्कृते कुहशब्दात् क्यच् एतादृशे हे उषःत्वा त्वां यद्यदां कश्चित् पृच्छात् पृच्छति ईजानः इष्टवान् वरुः कुहया क्वतिष्ठतीति यदा पृच्छति तदानीमपश्रितः सर्वैराश्रितःयद्वा विवृतद्वारः । यदा याचमानाआगच्छन्ति तदा दौवारिका न प्रतिबध्नन्तीत्यर्थः तादृशः वलोवरः स्वबलेनावरकः शत्रूणां यद्वा भिक्षूणां धनादिप्रदानेनावरिता एषोएषवरुः गोमतीं एतन्नामिकां तदीं कालाध्वनोरितिद्वितीया तस्यास्तीरे अवतिष्ठतीति तदानीं त्वं कथयसि ॥ ३० ॥

तावामिति चतुर्विंशत्यृचं पच्चमं सूक्तम् अत्रेयमनुक्र्मणिका-तावांचतुर्विशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रोवैश्वदेव्यउपान्त्योष्णिग्गर्भेति । व्यश्वपुत्रो- वैयश्वनामा ऋषिः पूर्ववदुष्णिक् छ्न्दः त्रयोविंशीउष्णिग्गर्भा । षट्सप्तैकादशाउष्णिग्गर्भेति तल्लक्षणोपेतत्वात् । दशम्येकादशीद्वादश्योवैश्वदेव्यः अवशिष्टानां मित्रावरुणौ देवता सूक्तविनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०