मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २

संहिता

मि॒त्रा तना॒ न र॒थ्या॒३॒॑ वरु॑णो॒ यश्च॑ सु॒क्रतु॑ः ।
स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥

पदपाठः

मि॒त्रा । तना॑ । न । र॒थ्या॑ । वरु॑णः । यः । च॒ । सु॒ऽक्रतुः॑ ।
स॒नात् । सु॒ऽजा॒ता । तन॑या । धृ॒तऽव्र॑ता ॥

सायणभाष्यम्

सुक्रतुः शोभनकर्मा योवरुणः सुकर्मा मित्रश्च मित्रावरुणौ कीदृशौ तना तन्वन्ति मुकुटकटकादिनेति तनानि धनानि नश्चार्थे धनानिच रथया रथयौ नेतारौ । यद्वा धनानि कर्मणः कर्तृपक्षत्वात् प्रयच्छन्ताविति संबध्यते । तादृशौ रथयौ रथवन्तौ सनाच्चिरादेव सुजाता सुजातौ शोभनजन्मानौ तदे- वाह तनया तनयौ अदितेः पुत्रौ धृतव्रता धृतव्रतौ धृतकर्माणौ तौ यजसइति पूर्वेणसमन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१