मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ३

संहिता

ता मा॒ता वि॒श्ववे॑दसासु॒र्या॑य॒ प्रम॑हसा ।
म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ॥

पदपाठः

ता । मा॒ता । वि॒श्वऽवे॑दसा । अ॒सु॒र्या॑य । प्रऽम॑हसा ।
म॒ही । ज॒जा॒न॒ । अदि॑तिः । ऋ॒तऽव॑री ॥

सायणभाष्यम्

अदितेस्तनयत्वमेव स्फुटयति-विश्ववेदसा विश्ववेदसौ सर्वधनौ यद्वा विश्वानि स्थावरजंगमात्मकानि सर्वाणि विदतुर्जानीतइति विश्ववेदसौ प्रमह- सा प्रमहसौ प्रकृष्टतेजस्कौ ता तौ तादृशौ मित्रावरुणौ मही महती ऋतावरी सत्यवती माता देवमाता अदितिः जजान जनयामास । किमर्थं असु- र्याय असुराणां हन्त्रे बलाय असुरान्हंतुमुत्पादितवतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१