मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ४

संहिता

म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।
ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥

पदपाठः

म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा ।
ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥

सायणभाष्यम्

महान्ता गुणाधिक्येन महान्तौ सम्राजौ सम्यग्दीप्यमानौ असुरा असुरौ बलवन्तौ यद्वा सर्वान्तर्यामितया प्रेरकौ ऋतावानौ सत्यवन्तौ मित्रावरुणौ देवौ बृहत् स्तोत्रशस्त्रादिना महान्तं ऋतं यज्ञमाघोषतः स्वदीप्त्या प्रकाशयतः घुषेर्लटिरूपम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१