मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ५

संहिता

नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।
सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥

पदपाठः

नपा॑ता । शव॑सः । म॒हः । सू॒नू इति॑ । दक्ष॑स्य । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।
सृ॒प्रदा॑नू॒ इति॑ सृ॒प्रऽदा॑नू । इ॒षः । वास्तु॑ । अधि॑ । क्षि॒तः॒ ॥

सायणभाष्यम्

महोमहतः शवसोबलस्यनपाता नपातौ पौत्रौ बलेनोत्पादिताविति बलस्य पौत्रौ तादृशा दक्षस्य । दक्षवृद्धौ शीघ्रार्थेचेति दक्षोवेगः । तस्य सूनू पुत्रौ । बलाद्वेगइति तयोःपुत्रत्वम् । तौ सुक्रतू शोभनकर्माणौ सृप्रदानू प्रसृतधनादिदानौ मित्रावरुणौ इषोन्नस्य वास्तु निवासस्थाने अधिक्षितः अधिवसतः । अधिशीङिति वास्तुनः कर्मसंज्ञा क्षयतेर्लटि छान्दसोविकरणस्यलुक् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१