मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ६

संहिता

सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।
नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टयः॑ ॥

पदपाठः

सम् । या । दानू॑नि । ये॒मथुः॑ । दि॒व्याः । पार्थि॑वीः । इषः॑ ।
नभ॑स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ या यौ युवां दानूनि देयानि धनानि संयेमथुः अस्मासु संयच्छतं तथा दिव्यानि दिविभवानि पार्थिवीः पृथिव्यामुत्पन्नानि इषोन्नानि संयच्छतं वृष्ट्यभावे कथमन्नंलभ्यतइतिचेत् तदुच्यते-नभस्वतीः उदकवत्योवृष्टयः तादृशौ वां युवां आचरन्तूपतिष्ठन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२