मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ८

संहिता

ऋ॒तावा॑ना॒ नि षे॑दतु॒ः साम्रा॑ज्याय सु॒क्रतू॑ ।
धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥

पदपाठः

ऋ॒तऽवा॑ना । नि । से॒द॒तुः॒ । साम्ऽरा॑ज्याय । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ ।
धृ॒तऽव्र॑ता । क्ष॒त्रिया॑ । क्ष॒त्रम् । आ॒श॒तुः॒ ॥

सायणभाष्यम्

ऋतावाना ऋतावानौ सत्यवन्तौ सुक्रतू शोभनकर्माणौ सुप्रज्ञौवा मित्रावरुणौ साम्राज्याय साम्राज्यार्थं निषीदतुः न्यसीदताम् । तथामन्त्रः-निषसा- दधृतव्रतोवरुणःपस्त्यास्वा । साम्राज्यायसुक्रतुरिति । धृतव्रता धृतव्रतौ धृतकर्माणौ क्षत्रिया क्षत्रियौ बलवन्तौ क्षत्रं बलमाशतुः आनशाते व्याप्नुत- इअत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२