मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १०

संहिता

उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।
उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥

पदपाठः

उ॒त । नः॒ । दे॒वी । अदि॑तिः । उ॒रु॒ष्यता॑म् । नास॑त्या ।
उ॒रु॒ष्यन्तु॑ । म॒रुतः॑ । वृ॒द्धऽश॑वसः ॥

सायणभाष्यम्

उतापिच देवी द्योतनशीला अदितिर्मित्रावरुणयोर्माता नोस्मान्रक्षतु नासत्या नासत्यौ असत्यमनयोर्नास्तीति नासत्यौ अश्विनौच उरुष्यतां रक्षताम् । उरुष्यतिः कंड्वादिः वृद्धश्रवसः वृद्धवेगा अतिशयेन वेगवन्तइत्यर्थः यद्वा वर्धनशीलहविर्लक्षणान्नोपेताः मरुतः उरुष्यन्तु अस्मान्पालयन्तु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२