मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् ११

संहिता

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।
अरि॑ष्यन्तो॒ नि पा॒युभि॑ः सचेमहि ॥

पदपाठः

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ ।
अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥

सायणभाष्यम्

हे सुदानवः शोभनदानामरुतः अरिष्यन्तः केनाप्यहिंसिताः ते तादृशायूयं नोस्मदीयां नावं यज्ञियां नावं दिवानक्तंच उरुष्यत पालयत । ततोवयं पायुभिर्युष्मदीयैः पालनैः निसचेमहि नितरां समवेताभवेम ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३