मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १३

संहिता

तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।
मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥

पदपाठः

तत् । वार्य॑म् । वृ॒णी॒म॒हे॒ । वरि॑ष्ठम् । गो॒प॒यत्य॑म् ।
मि॒त्रः । यत् । पान्ति॑ । वरु॑णः । यत् । अ॒र्य॒मा ॥

सायणभाष्यम्

वरिष्ठं उरुतरं गोपयत्यं सर्वेषां रक्षकं सर्वैः पालनीयं वा वार्यं सर्वैर्वननीयं तद्धनं वृणीमहे वयं संभजामहे । यद्धनं मित्रः सर्वेषां मित्रभूतः वरुणः शत्रूणां वारयिता अर्यमा सर्वदागच्छन् एतन्नामकास्त्रयोदेवाः पांति पालयन्ति तद्धनं वृणीमहे अस्मदीयस्य धनस्य रक्षकाभवन्तीत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३