मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १४

संहिता

उ॒त न॒ः सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।
इन्द्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥

पदपाठः

उ॒त । नः॒ । सिन्धुः॑ । अ॒पाम् । तत् । म॒रुतः॑ । तत् । अ॒श्विना॑ ।
इन्द्रः॑ । विष्णुः॑ । मी॒ढ्वांसः॑ । स॒ऽजोष॑सः ॥

सायणभाष्यम्

पुनरपि धनरक्षणमेवाशास्ते उतापिच अपामुदकानां सिन्धुः स्यन्दनशीलः पर्जन्यः नोस्मदीयं तद्धनं रक्षतु तदेव मरुतश्च पालयन्तु अश्विना अश्वि- नौ देवौ तद्धनं पालयताम् । तथा इन्द्रोविष्णुश्च मिढ्वांसः कामानां सेक्तारएत सर्वेदेवाः सजोषसः संगताः संतः अस्मदीयं धनं रक्षन्तु एतेदेवा अस्मभ्यं धनं दत्वा पालयन्त्वित्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३