मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १५

संहिता

ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।
ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥

पदपाठः

ते । हि । स्म॒ । व॒नुषः॑ । नरः॑ । अ॒भिऽमा॑तिम् । कय॑स्य । चि॒त् ।
ति॒ग्मम् । न । क्षोदः॑ । प्र॒ति॒ऽघ्नन्ति॑ । भूर्ण॑यः ॥

सायणभाष्यम्

वनुषः वननीयाः संभजनीयाः नरो नेतारस्तेहिष्म तेखलु देवाः भूर्णयः क्षिप्रगमनाः सन्तः कयस्यचित्कस्यचिच्छत्रोरभिमातिमभिमानं प्रतिघ्नन्ति प्रतिकूलं यथाभवति तथा हिंसन्ति । तत्रदृष्टान्तः-तिग्मंन यथा तिग्मं तीक्ष्णं जवेन गच्छत् क्षोदः उदकं अग्रतः स्थितं वृक्षमुन्मूलयति तद्वत् तस्याभि- मानं घ्नन्तीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३