मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १८

संहिता

परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।
उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥

पदपाठः

परि॑ । यः । र॒श्मिना॑ । दि॒वः । अन्ता॑न् । म॒मे । पृ॒थि॒व्याः ।
उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

योमित्रः दिवः पृथिव्याः द्यावापृथिव्योरन्तान् अन्तरान् रश्मिना स्वतेजसा परिममे परिमिनोति तयोः पर्यन्तान् स्वरश्मिना भासयतीत्यर्थः । सएवउभेरोदसी द्यावापृथिव्यौ महित्वा स्वमहिम्रा आपप्रौ आसमन्तात्पूरयति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४